मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३६, ऋक् १

संहिता

अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॒॑ रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑ ।
म॒हत्तद्वो॑ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ॥

पदपाठः

अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । उ॒क्थ्यः॑ । रथः॑ । त्रि॒ऽच॒क्रः । परि॑ । व॒र्त॒ते॒ । रजः॑ ।
म॒हत् । तत् । वः॒ । दे॒व्य॑स्य । प्र॒ऽवाच॑नम् । द्याम् । ऋ॒भ॒वः॒ । पृ॒थि॒वीम् । यत् । च॒ । पुष्य॑थ ॥

सायणभाष्यम्

अनश्वो जात इति नवर्चं चतुर्थं सूक्तमार्भवम् । ऋषिर्वामदेवः । अन्त्या त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । अनश्वोऽन्त्या त्रिष्तुबित्यनुक्रमणिका । आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्र आर्भवनिविद्धानीयमिदम् । तथा च सूत्रितम् । आनश्वो जातः परावतो य इति वैश्वदेवम् । आ. ७-७ । इति ॥

हे ऋभवोऽश्विनोः सम्बन्धी युष्मद्धत्तो रथोऽनश्वो जातो वाहनाश्वनिरपेक्षः सम्पन्नः । तथानभीशुः प्रग्रहरहित उक्थ्यः स्तुत्यस्त्रिचक्रश्चक्रत्रययुक्तः सन् रजोऽन्तरिक्षं परि वर्तते । परिभ्रमति । महत्प्रभूतं तद्रथनिर्माणाख्यं कर्म वो युश्माकं देव्यस्य देवत्वस्य प्रवाचनं प्रवक्तृ प्रख्यापकम् । यच्च येन कर्मणा द्यां पृथिवीं च पुष्यथ । पुष्टां कुरुथ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः