मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३६, ऋक् २

संहिता

रथं॒ ये च॒क्रुः सु॒वृतं॑ सु॒चेत॒सोऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया॑ ।
ताँ ऊ॒ न्व१॒॑स्य सव॑नस्य पी॒तय॒ आ वो॑ वाजा ऋभवो वेदयामसि ॥

पदपाठः

रथ॑म् । ये । च॒क्रुः । सु॒ऽवृत॑म् । सु॒ऽचेत॑सः । अवि॑ऽह्वरन्तम् । मन॑सः । परि॑ । ध्यया॑ ।
तान् । ऊं॒ इति॑ । नु । अ॒स्य । सव॑नस्य । पी॒तये॑ । आ । वः॒ । वा॒जाः॒ । ऋ॒भ॒वः॒ । वे॒द॒या॒म॒सि॒ ॥

सायणभाष्यम्

सुचेतसः शोभनचित्ता य ऋभवः सुवृतं सुवर्तनचक्रमविह्वरन्तमकुटिलं रथं मनसः परि ध्यया मनसो ध्यानेनाप्रयत्नेन नु क्शिप्रं चक्रुः तान् । उशब्द एवार्थे । तानेवास्य सवनस्य पीतय एतं सोमं पातुं हे वाजा हे ऋभवो वो युष्माना वेदयामसि । आवेदयामः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः