मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३६, ऋक् ३

संहिता

तद्वो॑ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो अभवन्महित्व॒नम् ।
जिव्री॒ यत्सन्ता॑ पि॒तरा॑ सना॒जुरा॒ पुन॒र्युवा॑ना च॒रथा॑य॒ तक्ष॑थ ॥

पदपाठः

तत् । वः॒ । वा॒जाः॒ । ऋ॒भ॒वः॒ । सु॒ऽप्र॒वा॒च॒नम् । दे॒वेषु॑ । वि॒ऽभ्वः॒ । अ॒भ॒व॒त् । म॒हि॒ऽत्व॒नम् ।
जिव्री॒ इति॑ । यत् । सन्ता॑ । पि॒तरा॑ । स॒ना॒ऽजुरा॑ । पुनः॑ । युवा॑ना । च॒रथा॑य । तक्ष॑थ ॥

सायणभाष्यम्

हे वाजा ऋभवो हे विभ्वो विभवः । इत्ररपेक्शया परस्परं बहुवचनमित्युक्तम् । वो युष्माकं तन्महित्वनं महत्त्वं महात्म्यं देवेषु मध्ये सुप्रवाचनं प्रवाच्यमभवत् । तदित्युक्तं यदित्याह । जिव्री वृद्धौ सन्ता सन्तौ सनाजुरा सदा जीर्णौ सन्तौ पितरा पितरौ पुनर्युवाना नित्यतरुणौ चरथाय यथेच्छं सञ्चरणाय तक्षथ । सम्पादितवन्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः