मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३६, ऋक् ४

संहिता

एकं॒ वि च॑क्र चम॒सं चतु॑र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॑ः ।
अथा॑ दे॒वेष्व॑मृत॒त्वमा॑नश श्रु॒ष्टी वा॑जा ऋभव॒स्तद्व॑ उ॒क्थ्य॑म् ॥

पदपाठः

एक॑म्् । वि । च॒क्र॒ । च॒म॒सम् । चतुः॑ऽवयम् । निः । चर्म॑णः । गाम् । अ॒रि॒णी॒त॒ । धी॒तिऽभिः॑ ।
अथ॑ । दे॒वेषु॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒श॒ । श्रु॒ष्टी । वा॒जाः॒ । ऋ॒भ॒वः॒ । तत् । वः॒ । उ॒क्थ्य॑म् ॥

सायणभाष्यम्

हे ऋभव एकं चमसमेकवेव सन्तं पानसाधनं चमसं चतुर्वयम् । वयाः शाखाः । चतुः शाखं चतुरवयवं वि चक्र । व्यकुरुत । तथा धीतिभिः कर्मभिश्चर्मणो नूतनां गां निररिणीत । समस्कुरुत । निरित्येष समित्येतस्य स्थाने । अथ अतः कारणात् देवेषु मध्येऽम्रुतत्वमानश । प्राप्नुत । हे वाज हे ऋभवस्तत्तादृशं वो युष्माकं कर्म । श्रुष्टीति क्शिप्रनामैतत् । क्शिप्रमुक्थ्यं स्तुत्यं भवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः