मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३६, ऋक् ५

संहिता

ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी॑जन॒न्नरः॑ ।
वि॒भ्व॒त॒ष्टो वि॒दथे॑षु प्र॒वाच्यो॒ यं दे॑वा॒सोऽव॑था॒ स विच॑र्षणिः ॥

पदपाठः

ऋ॒भु॒तः । र॒यिः । प्र॒थ॒मश्र॑वःऽतमः । वाज॑ऽश्रुतासः । यम् । अजी॑जनन् । नरः॑ ।
वि॒भ्व॒ऽत॒ष्टः । वि॒दथे॑षु । प्र॒ऽवाच्यः॑ । यम् । दे॒वा॒सः॒ । अव॑थ । सः । विऽच॑र्षणिः ॥

सायणभाष्यम्

ऋभन्त ऋभूणां सकाशात्प्रथमश्रवस्तमः प्रथमं मुख्यमतिशयितमन्नं यशो वा यस्य धनस्य तद्रयिर्धनम् । अस्माकं भवत्विति शेषः । वाजश्रुतासो वाजैः सह विख्याता नरो नेतार ऋभवो यं रयिमजीजनन् । उत्पादितवन्तः । विभ्वतष्टो विभ्वभिर्यभुभिस्तष्टस्तक्षनसम्पन्नश्चमसोऽश्विनो रथो वा विदथेषु यज्ञेषु प्रवाच्यः । प्रकर्षेण स्तुत्यः । हे देवासो द्योतमाना यूयं यं रथं चमसं वावथ । रक्शथ । स विचर्षणिर्विविधं द्रष्टा भवति । द्रष्टव्यो भवतीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः