मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३६, ऋक् ६

संहिता

स वा॒ज्यर्वा॒ स ऋषि॑र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत॑नासु दु॒ष्टरः॑ ।
स रा॒यस्पोषं॒ स सु॒वीर्यं॑ दधे॒ यं वाजो॒ विभ्वाँ॑ ऋ॒भवो॒ यमावि॑षुः ॥

पदपाठः

सः । वा॒जी । अर्वा॑ । सः । ऋषिः॑ । व॒च॒स्यया॑ । सः । शूरः॑ । अस्ता॑ । पृत॑नासु । दु॒स्तरः॑ ।
सः । रा॒यः । पोष॑म् । सः । सु॒ऽवीर्य॑म् । द॒धे॒ । यम् । वाजः॑ । विऽभ्वा॑ । ऋ॒भवः॑ । यम् । आवि॑षुः ॥

सायणभाष्यम्

स वाजी वेजनवान् बलवान् सन् अर्वारनकुशलो भवति । स ऋषिरतीन्द्रियज्ञानी सन् वचस्यया स्तुत्या युक्तो भवति । स शूरो विक्रान्तः सन् अस्ता क्षेप्ता शत्रूणां भवति । स्वयं च पृतनासु सङ्ग्रामेषु दुष्टरो नाभिभाव्यो भवति । स एव रायस्पोषं धनपुष्टिं दधे । धत्ते । स सुवीर्यं सुवीरत्वं दधे । धत्ते । यं मनुष्यं वाजो विभ्वा ऋभवश्चाविषुः । अरक्षन् । स एवमेवं भवतीति । अन्त्यस्य बहुवन्निर्देशस्त्रयाणामृभुव्यवहारप्राचुर्याभिप्रायः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः