मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३६, ऋक् ७

संहिता

श्रेष्ठं॑ व॒ः पेशो॒ अधि॑ धायि दर्श॒तं स्तोमो॑ वाजा ऋभव॒स्तं जु॑जुष्टन ।
धीरा॑सो॒ हि ष्ठा क॒वयो॑ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे॑दयामसि ॥

पदपाठः

श्रेष्ठ॑म् । वः॒ । पेशः॑ । अधि॑ । धा॒यि॒ । द॒र्श॒तम् । स्तोमः॑ । वा॒जाः॒ । ऋ॒भ॒वः॒ । तम् । जु॒जु॒ष्ट॒न॒ ।
धीरा॑सः । हि । स्थ । क॒वयः॑ । वि॒पः॒ऽचितः॑ । तान् । वः॒ । ए॒ना । ब्रह्म॑णा । आ । वे॒द॒या॒म॒सि॒ ॥

सायणभाष्यम्

श्रेष्ठमत्युत्कृष्टमत एव दर्शतं दर्शनीयं वो युष्माकं पेशो रूपमधि धायि । अधिनिहितम् । अतस्तदुचितो यः स्तोमः स्तोत्रमस्मत्कृतमस्ति हे वाजा ऋभवस्तं स्तोमं स्तोत्रं जुजुष्टन । सेवध्वम् । ये यूयं धीरासो हि धीमन्तः प्रसिद्धाः कवयो मेधाविनो विपश्चितो ज्ञानवन्तः स्थ तान्वो युष्मानेनैनेन ब्रह्मणा मन्त्रेण शस्त्रात्मकेना वेदयामसि । अथवोक्तलक्शना विपश्चितः स्तोतारो यान् । स्तुवन्तीति शेशः । तान्ब्रह्मणा आ वेदयामसि । प्रज्ञापयामः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः