मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३६, ऋक् ८

संहिता

यू॒यम॒स्मभ्यं॑ धि॒षणा॑भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना ।
द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो॑ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ॥

पदपाठः

यू॒यम् । अ॒स्मभ्य॑म् । धि॒षणा॑भ्यः । परि॑ । वि॒द्वांसः॑ । विश्वा॑ । नर्या॑णि । भोज॑ना ।
द्यु॒ऽमन्त॑म् । वाज॑म् । वृष॑ऽशुष्मम् । उ॒त्ऽत॒मम् । आ । नः॒ । र॒यिम् । ऋ॒भ॒वः॒ । त॒क्ष॒त॒ । आ । वयः॑ ॥

सायणभाष्यम्

हेऋभवो यूयमस्मभ्यं धिषणाभ्यस्परि स्तुतिभ्यो निमित्तभुताभ्यः । परीति पञ्चम्यर्थानुवादी । यद्वा । अस्मन्मतिभ्योऽधिकानि नर्यानि नृभ्यो हितानि विश्वा सर्वाणि भोजना भोग्यानि विद्वांसो जानन्तः सन्त आ तक्षत । सम्पादयत । किञ्च द्युमन्तं दीप्तिमन्तं हिरण्यादिरूपं वाजं बलवन्तं वृषशुष्मं सेक्तॄणां बलवतां शोषकमुत्तमं रयिं नोऽस्माकं वयोऽन्नं चा तक्षत हे ऋभवः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः