मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३६, ऋक् ९

संहिता

इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णा इ॒ह श्रवो॑ वी॒रव॑त्तक्षता नः ।
येन॑ व॒यं चि॒तये॒मात्य॒न्यान्तं वाजं॑ चि॒त्रमृ॑भवो ददा नः ॥

पदपाठः

इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णाः । इ॒ह । श्रवः॑ । वी॒रऽव॑त् । त॒क्ष॒त॒ । नः॒ ।
येन॑ । व॒यम् । चि॒तये॑म । अति॑ । अ॒न्यान् । तम् । वाज॑म् । चि॒त्रम् । ऋ॒भ॒वः॒ । द॒द॒ । नः॒ ॥

सायणभाष्यम्

नो अस्माकमिह यज्ञे रराणा रममानाः प्रजां पुत्रपौत्रादिरूपां तक्षत । सम्पादयत । इहैव यज्ञे रयिं च तक्षत । इहैव यज्ञे श्रवो यशो वीरवद्वीरैर्भृत्यादिभिरुपेतं तक्षत । किञ्च वयं येन वाजेनान्यानस्मत्समानति चितयेम । अतिक्रम्य ज्ञायेमहि । तं चित्रं चायनीयं वाजमन्नं हे ऋभवो नो दद । अस्मभ्यं दत्त ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः