मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३७, ऋक् १

संहिता

उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानै॑ः ।
यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म् ॥

पदपाठः

उप॑ । नः॒ । वा॒जाः॒ । अ॒ध्व॒रम् । ऋ॒भु॒क्षाः॒ । देवाः॑ । या॒त । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ।
यथा॑ । य॒ज्ञम् । मनु॑षः । वि॒क्षु । आ॒सु । द॒धि॒ध्वे । र॒ण्वाः॒ । सु॒ऽदिने॑षु । अह्ना॑म् ॥

सायणभाष्यम्

उप नो वाजा इत्यष्टर्चं पञ्चमं सूक्तं वामदेवस्यार्षमार्भवं त्रैष्टुभम् । पञ्चम्याद्याश्चतस्त्रोऽनुष्तुभः । तथा चानुक्रान्तम् । उप नोऽष्टौ चतुरनुष्तुबन्तमिति । व्यूढे दशरात्रे षष्ठेऽहनि वैश्वदेवशस्त्र आद्याश्चतस्त्रः शस्याः । उप नो वाजा इति त्रयोदशार्भवं चतस्रश्च । आ. ८-८ । इति हि सूत्रितं ॥

हे वाजा हे ऋभुक्षा ऋभवो हे देवा नोऽध्वरं यागमुप यत । उपगच्छत । देवयानैर्देवैर्गन्तव्यैः पथिभिर्मार्गैः । यथा येन प्रकारेण मनुषो मनोः सम्बन्धिनीष्वासु विक्षु प्रजासु यजमानेषु मध्ये हे रण्वा रमणीया ऋभवोऽह्नां सुदिनेषु सुदिनत्वनिमित्तेषु यज्ञमस्मदीयं दधिध्वे । धारयथ । यथा येन प्रकारेण यज्ञमागत्य सुदिनत्वं कुरुथ तथा यज्ञमायतेति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः