मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३७, ऋक् २

संहिता

ते वो॑ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः ।
प्र वः॑ सु॒तासो॑ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयन्त पी॒ताः ॥

पदपाठः

ते । वः॒ । ह्र॒दे । मन॑से । स॒न्तु॒ । य॒ज्ञाः । जुष्टा॑सः । अ॒द्य । घृ॒तऽनि॑र्निजः । गुः॒ ।
प्र । वः॒ । सु॒तासः॑ । ह॒र॒य॒न्त॒ । पू॒र्णाः । क्रत्वे॑ । दक्षा॑य । ह॒र्ष॒य॒न्त॒ । पी॒ताः ॥

सायणभाष्यम्

अद्यास्मिन्यागदेने त एते यज्ञा यागसाधनाः सोमा वो हृदे हृदयाय मनसे तत्प्रीयते सन्तु । भवन्तु । अद्यास्मिन्दिने जुष्तासः पर्याप्ताः सोमा घृतनिर्णिजो मिश्रणद्रव्येण दीप्तरूपा गुः । गच्छन्तु युष्मद्धृदयम् । सुतासोऽभिषुताः सोमाश्चमसेषु पूर्णा वो युष्मदर्थं प्र हरयन्त । प्रह्रियन्ते । यद्वा । हर्यतेः कान्तिकर्मण इदं रूपम् । प्रकर्षेण वो युश्मान् कामयन्ते । क्रत्वे क्रतवे कर्मणे कक्षयोत्साहाय पीता हर्षयन्त । हर्षयन्तु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः