मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३७, ऋक् ३

संहिता

त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ व॒ः स्तोमो॑ वाजा ऋभुक्षणो द॒दे वः॑ ।
जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोम॑म् ॥

पदपाठः

त्रि॒ऽउ॒दा॒यम् । दे॒वऽहि॑तम् । यथा॑ । वः॒ । स्तोमः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । द॒दे । वः॒ ।
जु॒ह्वे । म॒नु॒ष्वत् । उप॑रासु । वि॒क्षु । यु॒ष्मे इति॑ । सचा॑ । बृ॒हत्ऽदि॑वेषु । सोम॑म् ॥

सायणभाष्यम्

त्र्युदायं त्र्युदयं सवनत्रयगमनोपेतं देवहितं सोमाख्यमन्नं देवेभ्यो हितं देवैर्वा विहितम् । तृतीयसवनस्थमित्यर्थः । तद्यथा वो युष्मान्ददे । धारयति । हे वाज हे ऋभुक्षण ऋभवो यथा सोत्मः स्तोत्रं वो ददे । धारयति । उपरासु । उप देवयजनसमीपे रमन्त इत्युपराः । तासु विक्षु प्रजासु बृहद्दिवेषु प्रभुतदीप्तिषु देवेषु मध्ये मनुष्वत् मनुरिव युष्मे युष्मदर्थं सचा सहानेकग्रहेषु प्रस्थितं जुह्वे । जुहोमि सोमं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः