मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३७, ऋक् ४

संहिता

पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒तायः॑शिप्रा वाजिनः सुनि॒ष्काः ।
इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥

पदपाठः

पीवः॑ऽअश्वाः । शु॒चत्ऽर॑थाः । हि । भू॒त । अयः॑ऽशिप्राः । वा॒जि॒नः॒ । सु॒ऽनि॒ष्काः ।
इन्द्र॑स्य । सू॒नः॒ । श॒व॒सः॒ । न॒पा॒तः॒ । अनु॑ । वः॒ । चे॒ति॒ । अ॒ग्रि॒यम् । मदा॑य ॥

सायणभाष्यम्

हे वाजिन ऋभवः पीवो अश्वाः । पीवानोऽश्वा येशां ते तादृशाः तथा शुचद्रथा दीप्तरथा अयःशिप्राः । शिप्रे हनू नासिके वा । अयोवत्सारभूतशिप्राः सुनिष्काः शोभनधनाश्च भूत । भवत । हे इन्द्रस्य सूनो सूनवः पुत्रवद्रक्षणीया हे शवसो नपातो बलस्य पुत्रा बलिनो वो युश्मभ्यं मदायानु चेति । अन्वज्ञायि । देवेष्वग्रियमग्रे भवं तृतीयसवनं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः