मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३७, ऋक् ५

संहिता

ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिन्त॑मं॒ युज॑म् ।
इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन॑म् ॥

पदपाठः

ऋ॒भुम् । ऋ॒भु॒क्ष॒णः॒ । र॒यिम् । वाजे॑ । वा॒जिन्ऽत॑मम् । युज॑म् ।
इन्द्र॑स्वन्तम् । ह॒वा॒म॒हे॒ । स॒दा॒ऽसात॑मम् । अ॒श्विन॑म् ॥

सायणभाष्यम्

हे ऋभुक्षण ऋभव ऋभुमुरुभासमानं रयिं धनरूपम् । तद्धेतुभूतत्वात् ताच्छब्द्यम् । वाजे सङ्ग्रामे वाजिन्तममत्यन्तबलवन्तं युजं परस्परयोगोपेतमिन्द्रस्वन्तमिन्द्रवन्तमिन्द्रियवन्तं सदासतमं सर्वदा दातृतममश्विनमश्ववन्तं भवतां गणं हवामहे । आह्वयामि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः