मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३७, ऋक् ६

संहिता

सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य॑म् ।
स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता ॥

पदपाठः

सः । इत् । ऋ॒भ॒वः॒ । यम् । अव॑थ । यू॒यम् । इन्द्रः॑ । च॒ । मर्त्य॑म् ।
सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता । मे॒धऽसा॑ता । सः । अर्व॑ता ॥

सायणभाष्यम्

हे ऋभवो यूयमिन्द्रश्च यं मर्त्यमवथ । रक्षथ । सेत्स एवास्तु । भवतु । नान्यः श्रेष्ठो भवत्वित्यर्थः । स एव धीभिः कर्मभिः सनिता सम्भक्ता भवतु । मेधसाता मेधसातौ यज्ञे स एवार्वतारनवताश्वेन युक्तो भवतु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०