मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३७, ऋक् ७

संहिता

वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे ।
अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥

पदपाठः

वि । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । प॒थः । चि॒त॒न॒ । यष्ट॑वे ।
अ॒स्मभ्य॑म् । सू॒र॒यः॒ । स्तु॒ताः । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥

सायणभाष्यम्

हे वाजा हे ऋभुक्षण ऋभवो नोऽस्माकं पथो वार्गान् यष्टवे यष्टुं यज्ञमार्गान्वि चितन । विचेतयत । पाज्ञापयतेत्यर्थः । अस्मभ्यं हे सूरयो मेधाविनो यूयं स्तुताः सन्तो विश्वा आशाः सर्वा दिशस्तरीषणि तरीतुं सामर्थ्यम् । वितरतेति शेषः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०