मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३७, ऋक् ८

संहिता

तं नो॑ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् ।
समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥

पदपाठः

तम् । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । इन्द्र॑ । नास॑त्या । र॒यिम् ।
सम् । अश्व॑म् । च॒र्ष॒णिऽभ्यः॑ । आ । पु॒रु । श॒स्त॒ । म॒घत्त॑ये ॥

सायणभाष्यम्

अनया स्तुतिमुपसंहृत्याभिमतमाशास्ते । हे वाजा हे ऋभुक्षण ऋभवो हे इन्द्र हे नासत्याश्विनौ ते यूयं नोऽस्मभ्यं चर्षणिभ्यो मनुष्येभ्यः स्तोतृभ्यस्तं पुरु प्रभूतं रयिं धनमश्वं च पुरु प्रभूतं मघत्तये धनदानाय समा शस्त । सम्यगाशासनं कुरुत ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०