उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ द्योरृ॑घाय॒तो अ॑भि॒युजो॑ भयन्ते ।
य॒दा स॒हस्र॑म॒भि षी॒मयो॑धीद्दु॒र्वर्तु॑ः स्मा भवति भी॒म ऋ॒ञ्जन् ॥
उ॒त । स्म॒ । अ॒स्य॒ । त॒न्य॒तोःऽइ॑व । द्योः । ऋ॒घा॒य॒तः । अ॒भि॒ऽयुजः॑ । भ॒य॒न्ते॒ ।
य॒दा । स॒हस्र॑म् । अ॒भि । सी॒म् । अयो॑धीत् । दुः॒ऽवर्तुः॑ । स्म॒ । भ॒व॒ति॒ । भी॒मः । ऋ॒ञ्जन् ॥
उत स्म अपि च खलु द्योर्दीप्यमानात्तन्यतोः शब्दयितुरशनेरिव ऋघायतो हिंसतोऽस्यास्माद्दधिक्रावाख्याद्देवादभियुजोऽभियोक्तारोऽसुरा भयन्ते । बिभ्यति । किञ्चायं यदा सीं सर्वतः सहस्रमभ्ययोधीत् । सम्प्र्हरेत् । तदा ऋञ्जन् प्रसाधयन्नात्मानं भीमो भयहेतुर्दुर्वर्तुर्दुर्वारश्च भवति ॥ ८ ॥