मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४१, ऋक् ४

संहिता

इन्द्रा॑ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्र॑म् ।
यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योजः॑ ॥

पदपाठः

इन्द्रा॑ । यु॒वम् । व॒रु॒णा॒ । दि॒द्युम् । अ॒स्मि॒न् । ओजि॑ष्ठम् । उ॒ग्रा॒ । नि । व॒धि॒ष्ट॒म् । वज्र॑म् ।
यः । नः॒ । दुः॒ऽएवः॑ । वृ॒कतिः॑ । द॒भीतिः॑ । तस्मि॑न् । मि॒मा॒था॒म् । अ॒भिऽभू॑ति । ओजः॑ ॥

सायणभाष्यम्

हे इन्द्रा इन्द्रौ वरुना वरुणऔ हे उग्रा उग्रौ । अत्र सर्वत्र परस्परापेक्षया द्विवचनं प्र मित्रयोर्वरुणौयोः । ऋग्वे. ७-६६-१ । इतिवत् । यद्वा । छान्दसत्वाद्व्यवहितस्याप्यानङ् । अस्मिन् शत्रौ दिद्युं दीप्तमोजिष्ठमतिशयेन तेजोवद्वज्रमायुधं नि वधिष्टम् । वधार्थं प्रेरयतमित्यर्थः । यः शत्रुर्नोऽस्माकं दुरेवो दुष्प्रापो वृकतिरतिशयेनादाता दभीतिर्हिंसकस्तस्मिन् शत्रावभिभूत्यभिभावुकमोजो बलं मिमाथाम् । कुरुतमित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५