मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४१, ऋक् १०

संहिता

अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम ।
ता च॑क्रा॒णा ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो॑ नि॒युतः॑ सचन्ताम् ॥

पदपाठः

अश्व्य॑स्य । त्मना॑ । रथ्य॑स्य । पु॒ष्टेः । नित्य॑स्य । रा॒यः । पत॑यः । स्या॒म॒ ।
ता । च॒क्रा॒णौ । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । अ॒स्म॒ऽत्रा । रायः॑ । नि॒ऽयुतः॑ । स॒च॒न्ता॒म् ॥

सायणभाष्यम्

अश्व्यस्याश्वसमूहस्य रथ्यस्य रथरूपस्य रथार्हस्य वा पुष्टेः पोषस्य नित्यस्याविचलितस्य रायो धनस्य त्मनात्मना स्वयमेवाप्रयत्न्न पतयह् स्याम । ता तौ चेवौ चक्राना चङ्क्रममाणौ गन्तारौ । भवतमिति शेषः । नव्यसीभिर्नूतनाभिरूरिभीरक्षाभिरस्मत्रास्मासु नियुतोऽश्वा रायो धनानि च सचन्ताम् । सेवन्ताम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६