अ॒हमिन्द्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके॑ ।
त्वष्टे॑व॒ विश्वा॒ भुव॑नानि वि॒द्वान्त्समै॑रयं॒ रोद॑सी धा॒रयं॑ च ॥
अ॒हम् । इन्द्रः॑ । वरु॑णः । ते इति॑ । म॒हि॒ऽत्वा । उ॒र्वी इति॑ । ग॒भी॒रे इति॑ । रज॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।
त्वष्टा॑ऽइव । विश्वा॑ । भुव॑नानि । वि॒द्वान् । सम् । ऐ॒र॒य॒म् । रोद॑सी॒ इति॑ । धा॒रय॑म् । च॒ ॥
अहं त्रसदस्युरिन्द्र इन्द्रोऽप्यस्मि । अहं वरुणश्च । ते महित्वा महित्वेनोर्वी विस्तीर्णे गभीरे दुरवगाहे अवकाशवतौ वा सुमेके सुरूपे रजसी द्यावापृथिव्यौ ते अप्यहमेव । विद्वान् जानन्नहं त्वष्टेव प्रजापतिरिव विश्वा भुवनानि सर्वाणि भुतानि समैरयम् । संप्रैरयम् । रोदसी द्यावापृथिव्यौ धारयं च । धृतवानस्मि ॥ ३ ॥