मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४२, ऋक् ४

संहिता

अ॒हम॒पो अ॑पिन्वमु॒क्षमा॑णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ ।
ऋ॒तेन॑ पु॒त्रो अदि॑तेरृ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ॥

पदपाठः

अ॒हम् । अ॒पः । अ॒पि॒न्व॒म् । उ॒क्षमा॑णाः । धा॒रय॑म् । दिव॑म् । सद॑ने । ऋ॒तस्य॑ ।
ऋ॒तेन॑ । पु॒त्रः । अदि॑तेः । ऋ॒तऽवा॑ । उ॒त । त्रि॒ऽधातु॑ । प्र॒थ॒य॒त् । वि । भूम॑ ॥

सायणभाष्यम्

अहमेवोक्षमाणाः सिञ्चतीरपोऽपिन्वम् । असेचयम् । तथा ऋतस्योदकस्यादित्यस्य वा सदसे स्थाने निमित्ते सति दिवं द्युलोकं धारयम् । यद्वा । उदकाधारे स्थाने दिवमादित्यं धारयम् । अहमेव ऋतेनोदकेन निमित्तेनादितेः पुत्र रुतावाभूवम् । उतापि च भूम व्याप्तमाकाशं त्रिधातु त्रिप्रकारं वि विशेशेन प्रथयत् । मदर्धमेव क्षित्यादिलोकत्रयमकार्षीत्परमेश्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७