मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४२, ऋक् ५

संहिता

मां नर॒ः स्वश्वा॑ वा॒जय॑न्तो॒ मां वृ॒ताः स॒मर॑णे हवन्ते ।
कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय॑र्मि रे॒णुम॒भिभू॑त्योजाः ॥

पदपाठः

माम् । नरः॑ । सु॒ऽअश्वाः॑ । वा॒जय॑न्तः । माम् । वृ॒ताः । स॒म्ऽअर॑णे । ह॒व॒न्ते॒ ।
कृ॒णोमि॑ । आ॒जिम् । म॒घऽवा॑ । अ॒हम् । इन्द्रः॑ । इय॑र्मि । रे॒णुम् । अ॒भिभू॑तिऽओजाः ॥

सायणभाष्यम्

मां मामेव स्वश्वाः शोभनाश्वा वाजयन्तः सङ्ग्राममिच्छन्तो नरो नेतारो भटाः । अनुगच्छन्तीति शेशः । मामेव व्रुताः सन्तः समरणे सङ्ग्रामे हवन्ते । आह्वयन्ति युद्धार्थम् । मघवा धनवानहमिन्द्रः सन्नाजिं कृणोमि । करोमि । अभिभूत्योजाः परेषामभिभाविबलोऽहं रेणुमियर्मि । प्रेरयामि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७