मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४२, ऋक् ६

संहिता

अ॒हं ता विश्वा॑ चकरं॒ नकि॑र्मा॒ दैव्यं॒ सहो॑ वरते॒ अप्र॑तीतम् ।
यन्मा॒ सोमा॑सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ॥

पदपाठः

अ॒हम् । ता । विश्वा॑ । च॒क॒र॒म् । नकिः॑ । मा॒ । दैव्य॑म् । सहः॑ । व॒र॒ते॒ । अप्र॑तिऽइतम् ।
यत् । मा॒ । सोमा॑सः । म॒मद॑न् । यत् । उ॒क्था । उ॒भे इति॑ । भ॒ये॒ते॒ इति॑ । रज॑सी॒ इति॑ । अ॒पा॒रे इति॑ ॥

सायणभाष्यम्

अहं त्रसदस्युस्ता तानि प्रसिद्धानि विश्वा सर्वाणि चकरम् । अकार्शम् । अप्रतीतमप्रतिगतं मा मां दैव्यं सहो देवसम्बन्धि सहो बलं नकिर्वरते । नैव वारयति । यद्यस्मात्सोमासः सोमा मा मां ममदन् । अमदयन् । यच्चोक्था शस्त्राण्यपि ममदन् तस्मान्मत्तोऽपारे दूरपारे उभे रजसी द्यावापृथिव्यौ भयेते । चलतः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८