मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४३, ऋक् ६

संहिता

सिन्धु॑र्ह वां र॒सया॑ सिञ्च॒दश्वा॑न्घृ॒णा वयो॑ऽरु॒षास॒ः परि॑ ग्मन् ।
तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्याया॑ः ॥

पदपाठः

सिन्धुः॑ । ह॒ । वा॒म् । र॒सया॑ । सि॒ञ्च॒त् । अश्वा॑न् । घृ॒णा । वयः॑ । अ॒रु॒षासः॑ । परि॑ । ग्म॒न् ।
तत् । ऊं॒ इति॑ । सु । वा॒म् । अ॒जि॒रम् । चे॒ति॒ । यान॑म् । येन॑ । पती॒ इति॑ । भव॑थः । सू॒र्यायाः॑ ॥

सायणभाष्यम्

वां युवयोरश्वान् सिन्धुः स्यन्दमानो मेघ उदकं वा रसया रसेन सिञ्चत् । असेचयत् । घृणा दीप्त्या वयः पक्षिसदृशा वेतारो वा आश्वा अरुषास आरोचमानाः सन्तः परि परितो ग्मन् । गच्छन्ति । वां यानं गमनसाधनं प्रसिद्धो रथोऽजिरम् । क्षिप्रनामैतत् । सु सुष्ठु चेति । ज्ञायते । येन रथेन सूर्यायाः पति पालयितारौ वोढारौ भवथः स रथश्चेतीति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९