मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४४, ऋक् १

संहिता

तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः ।
यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युम् ॥

पदपाठः

तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । पृ॒थु॒ऽज्रय॑म् । अ॒श्वि॒ना॒ । सम्ऽग॑तिम् । गोः ।
यः । सू॒र्याम् । वह॑ति । व॒न्धु॒र॒ऽयुः । गिर्वा॑हसम् । पु॒रु॒ऽतम॑म् । व॒सु॒ऽयुम् ॥

सायणभाष्यम्

तं वां रथमिति सप्तर्चं द्वादशं सूक्तम् । पुरुमीह्ळाजमीह्ळावेव ऋषिः । त्रिष्टुप् छन्दः । अश्विनौ देवता । तं वामित्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

हे अश्विनौ वां युवयो रथं स्तोतारोऽद्य सुत्याहनि हुवेम । आह्वयामः । कीद्रुशं तम् । पृथुज्रयं प्रथितवेगं गोः गवां सङ्गतिं सङ्गमयितारम् । यो रथः सूर्यां वहति । धारयति । वन्धुरयुः । रथे निवासाधारभूतः काष्थो वन्धुरं तद्वान् । तं गिर्वाहसं गिरां स्तुतीनां वोढारं पुरुतमं प्रभूततमं वसूयुं वसुमन्तम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०