मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४४, ऋक् ३

संहिता

को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः ।
ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥

पदपाठः

कः । वा॒म् । अ॒द्य । क॒र॒ते॒ । रा॒तऽह॑व्यः । ऊ॒तये॑ । वा॒ । सु॒त॒ऽपेया॑य । वा॒ । अ॒र्कैः ।
ऋ॒तस्य॑ । वा॒ । व॒नुषे॑ । पू॒र्व्याय॑ । नमः॑ । ये॒मा॒नः । अ॒श्वि॒ना॒ । आ । व॒व॒र्त॒त् ॥

सायणभाष्यम्

को यजमानोऽद्य वां युवयोः करते । कुर्यात् स्तुतिम् । अर्कैर्मन्त्रै रातहव्यो दत्तसोम ऊतये वा रक्षणाय वा सुतपेयाय सोमपानाय वा । ऋतस्योदकस्य यज्ञस्य वा पूर्व्याय पुराणाय वनुषे सम्भजनाय हे अश्विना नमो येमानो नमस्कारं कुर्वाणाः क आ ववर्तत् । आवर्तयेद्यज्ञं प्रति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०