मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४६, ऋक् ६

संहिता

इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभि॑ः स॒जोष॑सा ।
पिब॑तं दा॒शुषो॑ गृ॒हे ॥

पदपाठः

इन्द्र॑वायू॒ इति॑ । अ॒यम् । सु॒तः । तम् । दे॒वेभिः॑ । स॒ऽजोष॑सा ।
पिब॑तम् । दा॒शुषः॑ । गृ॒हे ॥

सायणभाष्यम्

हे इन्द्रवायू आयं सोमः सुतोऽभिषुतः । तं सोमं देवेभिर्देवैः सजोषसा समानप्रीतौ दाशुषो हविर्दातुर्गृहे यागशालायां पिबन्तम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२