मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४७, ऋक् १

संहिता

वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।
आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥

पदपाठः

वायो॒ इति॑ । शु॒क्रः । अ॒या॒मि॒ । ते॒ । मध्वः॑ । अग्र॑म् । दिवि॑ष्टिषु ।
आ । या॒हि॒ । सोम॑ऽपीतये । स्पा॒र्हः । दे॒व॒ । नि॒युत्व॑ता ॥

सायणभाष्यम्

वायो शुक्र इति चतुऋचं द्वितीयं सूक्तमानुष्टुभं वामदेवस्यार्षमैन्द्रवायवम् । आद्या केवलवायव्या । अत्रानुक्रमणिका । वायो चतुष्कमाद्या वायव्यानुष्तुभं त्विति । सूक्तविनियोगो लैङ्गिकः । आद्या दशरात्रे चतुर्थेऽहनि प्रौगशस्त्रे वायव्यतृचे प्रथमा । वायो शुक्रो अयामि ते विहि होत्रा अवीताः । आ. ७-११ । इति सूत्रितम् ॥

हे वायो ते तुभ्यं शुक्रो व्रतचर्यादिना दीप्तोऽहं मध्वो मधुरं सोमरसम् । कर्मणि षष्ठी । अग्रमितरेभ्यः पूर्वमयामि । अययामि । अयतिरन्तर्भावितण्यर्थः । किमर्थम् । दिविषिषु दिवो द्युलोकस्यैषणेषु सत्सु हे देव वायो स्पार्हः स्पृहणीयस्त्वं नियुत्वता । नियुद्वायोः प्रतिनियुतोऽश्वः । तेन साधनेना याहि सोमपीतये सोमपानाय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३