मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४८, ऋक् १

संहिता

वि॒हि होत्रा॒ अवी॑ता॒ विपो॒ न रायो॑ अ॒र्यः ।
वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥

पदपाठः

वि॒हि । होत्रा॑ । अवी॑ताः । विपः॑ । न । रायः॑ । अ॒र्यः ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥

सायणभाष्यम्

विहि होत्रा इति पञ्चर्चं तृतीयं सूक्तं वामदेव्यं वायव्यम् । अत्रानुक्रमणिका । विहि पञ्च वायव्यमिति । सूक्तविनियोगो लैङ्गिकः । आद्या दशरात्रे चतुर्थेऽहनि प्रौगशस्त्रे वायव्यतृचस्य द्वितीया । तथा च सूत्रितम् । विहि होत्रा अवीता वायो शतं हरीणाम् । आ. ७-११ । इति ॥

हे वायो विहि । वीहि । भक्षय । होत्रा होमसाधिकाः सोमाहुतीरविता अन्यैः पूर्वमभक्षिता विपो न शत्रूणां वेपयिता राजेव । किञ्चार्यः सोत्तुर्मम रायो धनानि सम्पादयेति शेषः । हे वायो चन्द्रेणाह्लादकेन रथेनायाहि सुतस्य सोमस्य पीतये पानाय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४