मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४८, ऋक् ५

संहिता

वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑णाम् ।
उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥

पदपाठः

वायो॒ इति॑ । श॒तम् । हरी॑णाम् । यु॒वस्व॑ । पोष्या॑णाम् ।
उ॒त । वा॒ । ते॒ । स॒ह॒स्रिणः॑ । रथः॑ । आ । या॒तु॒ । पाज॑सा ॥

सायणभाष्यम्

वायो शतमिति पञ्चमी पूर्वोक्त एव तृचे तृतीया । सूत्रं पूर्वमेवोक्तम् ।

हे वायो त्वं पोष्याणां पोषणीयानां हरीणां शतं युवस्व । योजय रथे । उत वा अथवा ते सहस्रिणः सहस्रसङ्ख्यापूरका अश्वाः । तैर्युक्तो रथः पाजसा बलेना यातु । आगच्छतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४