मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४९, ऋक् २

संहिता

अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती ।
चारु॒र्मदा॑य पी॒तये॑ ॥

पदपाठः

अ॒यम् । वा॒म् । परि॑ । सि॒च्य॒ते॒ । सोमः॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ ।
चारुः॑ । मदा॑य । पी॒तये॑ ॥

सायणभाष्यम्

हे इन्द्राबृहस्पती वामास्ये चारुः शोभनोऽयं सोमः परि षिच्यते । परितो दीयते । मदाय हर्षाय पीतये पानाय च ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५