मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४९, ऋक् ४

संहिता

अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन॑म् ।
अश्वा॑वन्तं सह॒स्रिण॑म् ॥

पदपाठः

अ॒स्मे इति॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । र॒यिम् । ध॒त्त॒म् । श॒त॒ऽग्विन॑म् ।
अश्व॑ऽवन्तम् । स॒ह॒स्रिण॑म् ॥

सायणभाष्यम्

अस्या विनियोगः पूर्वमन्त्रेण सहोक्तः । हे इन्द्राबृहस्पती अस्मे अस्मभ्यम् रयिं धनं धत्तम् । कीदृशं रयिम् । शतग्विनं शतसङ्ख्याकाभिर्गोभिर्युक्तमश्वावन्तमश्ववन्तं सहस्रिणं सहस्रसङ्ख्यायुक्तं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५