मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५०, ऋक् ९

संहिता

अप्र॑तीतो जयति॒ सं धना॑नि॒ प्रति॑जन्यान्यु॒त या सज॑न्या ।
अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ॥

पदपाठः

अप्र॑तिऽइतः । ज॒य॒ति॒ । सम् । धना॑नि । प्रति॑ऽजन्यानि । उ॒त । या । सऽज॑न्या ।
अ॒व॒स्यवे॑ । यः । वरि॑वः । कृ॒णोति॑ । ब्र॒ह्मणे॑ । राजा॑ । तम् । अ॒व॒न्ति॒ । दे॒वाः ॥

सायणभाष्यम्

स एवाप्रतीतोऽन्यैरप्रतिगतः सन् यानि धनानि प्रतिजन्यानि प्रतिस्पर्थ्द्जनसम्बन्धीनि उतापि च सजन्या जनसम्बन्धीनि धनानि सं जयति । यो राजावस्यवेऽवसीयसे धनरहिताय रक्षणमिच्छते ब्रह्मणे ब्राह्मणाय वा प्रीणनमिच्छते बृहस्पतये वा वरिवो धनं कृणोति । करोति । ददाति । स उक्तप्रकारेण महान्भवति । तमेव देवा अवन्ति । रक्षन्ति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७