मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५१, ऋक् २

संहिता

अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ ।
व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती॑रव्र॒ञ्छुच॑यः पाव॒काः ॥

पदपाठः

अस्थुः॑ । ऊं॒ इति॑ । चि॒त्राः । उ॒षसः॑ । पु॒रस्ता॑त् । मि॒ताःऽइ॑व । स्वर॑वः । अ॒ध्व॒रेषु॑ ।
वि । ऊं॒ इति॑ । व्र॒जस्य॑ । तम॑सः । द्वारा॑ । उ॒च्छन्तीः॑ । अ॒व्र॒न् । शुच॑यः । पा॒व॒काः ॥

सायणभाष्यम्

चित्राश्चायनीया उषसः पुरस्तात्पूर्वस्यां दिश्यस्थुः । तिष्ठन्ति । व्याप्ता इत्यर्थः । तत्र दृष्टान्तः । अध्वरेषु मिताः खाताः स्वरवो यूपा इव । यथा वेद्याः पुरतो भासन्ते तद्वत् । यद्यपि स्वरुशब्दो यूपच्छेदपतितप्रथमशकलवाची यः प्रथमः शकलः परापतेत्स स्वरुः कार्य इत्युक्त्वात् तथाप्यत्र मितशब्दश्रवणाच्चषालवन्तः स्वरवः । ऋग्वे. ३-८-१० । इत्यादौ तथा दर्शनाच्चात्र यूपवचनः । ता व्रजस्य वारकस्य तमसो द्वारा द्वाराणि व्युच्छन्तीः शुचयो दीप्ताः पावकाः शोधिका अव्रन् । व्यवृण्वन् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः