मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५१, ऋक् ३

संहिता

उ॒च्छन्ती॑र॒द्य चि॑तयन्त भो॒जान्रा॑धो॒देया॑यो॒षसो॑ म॒घोनी॑ः ।
अ॒चि॒त्रे अ॒न्तः प॒णयः॑ सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ॥

पदपाठः

उ॒च्छन्तीः॑ । अ॒द्य । चि॒त॒य॒न्त॒ । भो॒जान् । रा॒धः॒ऽदेया॑य । उ॒षसः॑ । म॒घोनीः॑ ।
अ॒चि॒त्रे । अ॒न्तरिति॑ । प॒णयः॑ । स॒स॒न्तु॒ । अबु॑ध्यमानाः । तम॑सः । विऽम॑ध्ये ॥

सायणभाष्यम्

आद्यास्मिन्दिन उच्छन्तीस्तमो विवासयन्त्यो मघोनीर्धनवत्य उषसो भोजान् भोजयितॄन्यजमानान् तेषां राधोदेयाय सोमादिधनदानाय चितयन्त । प्रज्ञापयन्ति । अचित्रेऽचायनीये तमसो विमध्ये । अत्यन्तगाढान्धकार इत्यर्थः । तत्र पनयो वणिज इवादातारोऽबुध्यमानाः ससन्तु । स्वपन्तु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः