मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५१, ऋक् ४

संहिता

कु॒वित्स दे॑वीः स॒नयो॒ नवो॑ वा॒ यामो॑ बभू॒यादु॑षसो वो अ॒द्य ।
येना॒ नव॑ग्वे॒ अङ्गि॑रे॒ दश॑ग्वे स॒प्तास्ये॑ रेवती रे॒वदू॒ष ॥

पदपाठः

कु॒वित् । सः । दे॒वीः॒ । स॒नयः॑ । नवः॑ । वा॒ । यामः॑ । ब॒भू॒यात् । उ॒ष॒सः॒ । वः॒ । अ॒द्य ।
येन॑ । नव॑ऽग्वे । अङ्गि॑रे । दश॑ऽग्वे । स॒प्तऽआ॑स्ये । रे॒व॒तीः॒ । रे॒वत् । ऊ॒ष ॥

सायणभाष्यम्

हे देवीर्द्योतमाना उषसो वो युष्मान् सनयः पुराणो नवो वा यामो गमनसाधनः स रथोऽद्यास्मिन्यागदिने कुविद्बहुवारं बभूयात् । भवेत् । गच्छेदित्यर्थः । येन रथेन हे रेवतीर्धनवत्यो यूयं नवग्वे दशग्वे सप्तास्ये सप्तच्छन्दोयुक्तमुखेऽङ्गिरेऽङ्गिरोगणे । तौ द्वौ तत्र येऽप्यङ्गिरसस्तेषाम् गने । तथान्यत्र नवग्वो नु दशग्वो आङ्गिरस्तमः । ऋग्वे. १०-६२-६ । इति । रेवद्धनवद्यथा भवति तथोष्ग । विभातं कृतवत्यः । वसेर्व्युच्छनकर्मणो लिण्मध्यमबहुवचनस्येदं रूपं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः