मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५१, ऋक् ९

संहिता

ता इन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नीरमी॑तवर्णा उ॒षस॑श्चरन्ति ।
गूह॑न्ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभि॒ः शुच॑यो रुचा॒नाः ॥

पदपाठः

ताः । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नीः । अमी॑तऽवर्णाः । उ॒षसः॑ । च॒र॒न्ति॒ ।
गूह॑न्तीः । अभ्व॑म् । असि॑तम् । रुश॑त्ऽभिः । शु॒क्राः । त॒नूभिः॑ । शुच॑यः । रु॒चा॒नाः ॥

सायणभाष्यम्

ता एवोषसः । इदिति पूरणः । नु अद्य सुमना समानाः । एकधेत्यर्थः । समानीरेकरूपा अमीतवर्णा आहिंसितवर्ना अपरिमितवर्णा वा उषसश्चरन्ति सर्वतः । किं कुर्वथः । अभ्वम् । महन्नामैतत् । अतिमहदसितं क्रुश्णं रूपं गूहन्तीर्गोपयन्त्यो रुशद्भी रोचमानैस्तनूभिः स्वशरीरैः शुक्रा दीप्ताः शुचयः शुद्धा रुचाना रोचमाना रोचयन्त्यो वा ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः