मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५२, ऋक् २

संहिता

अश्वे॑व चि॒त्रारु॑षी मा॒ता गवा॑मृ॒ताव॑री ।
सखा॑भूद॒श्विनो॑रु॒षाः ॥

पदपाठः

अश्वा॑ऽइव । चि॒त्रा । अरु॑षी । मा॒ता । गवा॑म् । ऋ॒तऽव॑री ।
सखा॑ । अ॒भू॒त् । अ॒श्विनोः॑ । उ॒षाः ॥

सायणभाष्यम्

अश्वेव चित्रा जायनीयारुषी आरोचमाना गवां रश्मीनां माता निर्मात्री ऋतावरी यज्ञवत्युषा अश्विनोः सखा समानख्याना सह स्तूयमानाभूत् । भवति । अश्विनोरुषसा सह स्तूयमानात्वात्सखित्वं परस्परं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः