मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५२, ऋक् ४

संहिता

या॒व॒यद्द्वे॑षसं त्वा चिकि॒त्वित्सू॑नृतावरि ।
प्रति॒ स्तोमै॑रभुत्स्महि ॥

पदपाठः

य॒व॒यत्ऽद्वे॑षसम् । त्वा॒ । चि॒कि॒त्वित् । सू॒नृ॒ता॒ऽव॒रि॒ ।
प्रति॑ । स्तोमैः॑ । अ॒भु॒त्स्म॒हि॒ ॥

सायणभाष्यम्

यावयद्द्वेषसम् । यवयन्तो वियुज्यमाना द्वेषांसि द्वेष्टारो यस्यास्तादृशी । पृथक्क्रियन्ते द्वेषांस्यनयेति वा । रात्रौ हननायोद्युक्ता द्वेषिण उषः काले हि पलायन्ते । तादृशीं चिकित्वित् ज्ञापयन्तीं त्वा त्वां सूनृतावरि । सूनृतेति वाङ्नाम । तद्वति देविस्तोमैः स्तुतिभिः प्रत्यभुत्स्महि । प्रतिबोधयामः । स्तुम इत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः