मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५३, ऋक् ४

संहिता

अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते ।
प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥

पदपाठः

अदा॑भ्यः । भुव॑नानि । प्र॒ऽचाक॑शत् । व्र॒तानि॑ । दे॒वः । स॒वि॒ता । अ॒भि । र॒क्ष॒ते॒ ।
प्र । अ॒स्रा॒क् । बा॒हू इति॑ । भुव॑नस्य । प्र॒ऽजाभ्यः॑ । धृ॒तऽव्र॑तः । म॒हः । अज्म॑स्य । रा॒ज॒ति॒ ॥

सायणभाष्यम्

सविता देवोऽदाभ्योऽन्यैरहिंसितः सन् भुवनानि प्रचाकशत् दीपयन् व्रतानि कर्माणि प्राणिनामभि रक्षते । भुवनस्य लोकस्य प्रजाभ्यस्तत्रत्याभ्यो बाहू स्वीयौ प्रास्राक् । प्रसारयति । स्वस्वकर्मणेऽनुजानातीत्यर्थः । सर्वव्यापाराणां सूर्याधीनत्वात् । सविता वै प्रसवानामीशे । ऐ. ब्रा. १-१६ । इति हि श्रुतिः ॥ धृतव्रतो धृतकर्मा स तथा कुर्वन् महो महतोऽज्मस्य जगतो राजति । ईश्वरो भवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः