मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५४, ऋक् १

संहिता

अभू॑द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभि॑ः ।
वि यो रत्ना॒ भज॑ति मान॒वेभ्य॒ः श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥

पदपाठः

अभू॑त् । दे॒वः । स॒वि॒ता । वन्द्यः॑ । नु । नः॒ । इ॒दानी॑म् । अह्नः॑ । उ॒प॒ऽवाच्यः॑ । नृऽभिः॑ ।
वि । यः । रत्ना॑ । भज॑ति । मा॒न॒वेभ्यः॑ । श्रेष्ठ॑म् । नः॒ । अत्र॑ । द्रवि॑णम् । यथा॑ । दध॑त् ॥

सायणभाष्यम्

अभूद्देव इति षडृचं नवमं सूक्तं वामदेवस्यार्षं सावित्रं । अन्त्या त्रिष्टुप् शिष्तास्त्रिष्टुबन्तपरिभाषया जगत्यः । तथा चानुक्रमणिका । अभूद्देवः षट् त्रिष्टुबन्तमिति । अग्निष्तोमे वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदं । तथा च सूत्रं । अभूद्देव एकया च दशभिश्च स्वभूते । आ. ५-१८ ॥ इति । आद्यासावित्रग्रहस्यानुवाक्या । तथा च सूत्रं । सावित्रेण ग्रहेण चरन्त्यभूद्देवः सविता वन्द्यो नु नः । आ. ५-१८ । इति ॥

स सविता देवोऽभूत् । प्रादुरासीत् । अतो नु क्षिप्रमेव नोऽस्माकं वन्द्यो वन्दनीयो भवति । इदानीं यागकालेऽह्नस्तृतीयसवने नृभिरस्मदीयैर्होतृभिरुपवाच्यः स्तुत्यो भवति । यो देवो मानवेभ्यो मनोरपत्येभ्यो यजमानेभ्यस्तेषामर्थाय रत्ना रमणीयानि धनानि वि भजति स देवः श्रेष्ठं प्रशस्यं द्रविणं गवादिलक्षणं धनं नोऽस्मभ्यमत्रास्मिन्कर्मणि यथा दधत् । दद्यादित्यर्थः । तथा वन्द्य उपवाच्यश्चाभूदिति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः