मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५४, ऋक् ३

संहिता

अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षै॒ः प्रभू॑ती पूरुष॒त्वता॑ ।
दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः ॥

पदपाठः

अचि॑त्ती । यत् । च॒कृ॒म । दैव्ये॑ । जने॑ । दी॒नैः । दक्षः॑ । प्रऽभू॑ती । पु॒रु॒ष॒त्वता॑ ।
दे॒वेषु॑ । च॒ । स॒वि॒तः॒ । मानु॑षेषु । च॒ । त्वम् । नः॒ । अत्र॑ । सु॒व॒ता॒त् । अना॑गसः ॥

सायणभाष्यम्

हे सवितर्वयमचित्ती अप्रज्ञया दैव्ये जने देवे त्वयि दीनैर्दुर्बलैः पुत्रादिभिऋत्विग्भिर्व तथा दक्षैः प्रव्रुद्धैर्वा तैह् प्रभूती प्रभूत्या । ऐश्वर्यमदेनेति यावत् । पुरुषत्वता पुरुषवत्तया च यदागमश्च कृम । न केवलं त्वय्येव कृतमपि तु देवेश्वन्येशु मानुषेषु चाज्ञानादिभिर्यच्च कृम नः क्रुतवतोऽस्मान् त्वमत्रास्मिन्कर्मण्यनागसः सुवतात् । अनुजानीहि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः