मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५५, ऋक् ४

संहिता

व्य॑र्य॒मा वरु॑णश्चेति॒ पन्था॑मि॒षस्पति॑ः सुवि॒तं गा॒तुम॒ग्निः ।
इन्द्रा॑विष्णू नृ॒वदु॒ षु स्तवा॑ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू॑थम् ॥

पदपाठः

वि । अ॒र्य॒मा । वरु॑णः । चे॒ति॒ । पन्था॑म् । इ॒षः । पतिः॑ । सु॒वि॒तम् । गा॒तुम् । अ॒ग्निः ।
इन्द्रा॑विष्णू॒ इति॑ । नृ॒ऽवत् । ऊं॒ इति॑ । सु । स्तवा॑ना । शर्म॑ । नः॒ । य॒न्त॒म् । अम॑ऽवत् । वरू॑थम् ॥

सायणभाष्यम्

अर्यमा देवोऽस्माकं पन्थां यज्ञादिमार्गं वि चेति । ज्ञापयति । तथा वरुणो वि चेति । इषोऽन्नस्य हविर्लक्षणस्य पतिः पालकोऽग्निः सुवितं सुखकरं गातुं गमनं मार्गं वा स्वर्गादेर्वि चेति । इन्द्राविष्णू सु सुष्ठु स्तवाना स्तूयमानौ नृवन्मनुष्योपेतं वरूथम् वरणीयममवद्बलोपेतं शर्म गृहं सुखं वा नोऽस्माकं यन्तम् । यच्छतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः