मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५६, ऋक् २

संहिता

दे॒वी दे॒वेभि॑र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा॑णे ।
ऋ॒ताव॑री अ॒द्रुहा॑ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ॥

पदपाठः

दे॒वी इति॑ । दे॒वेभिः॑ । य॒ज॒ते इति॑ । यज॑त्रैः । अमि॑नती॒ इति॑ । त॒स्थ॒तुः॒ । उ॒क्षमा॑णे॒ इति॑ ।
ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । अ॒द्रुहा॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । य॒ज्ञस्य॑ । ने॒त्री इति॑ । शु॒चय॑त्ऽभिः । अ॒र्कैः ॥

सायणभाष्यम्

देवी देव्यौ यजते यष्टव्ये अमिनती प्रजा अहिंसत्यावुक्षमाणे सिञ्चत्यावृतावरी ऋतावत्यावद्रुहाद्रोग्ध्र्यौ द्रोहमकुर्वत्यौ देवपुत्रे देवोत्पादिक्यौ यज्ञस्य नेत्री निर्वाहयित्र्यौ द्यावापृथिव्यौ देवेभिर्देवैर्यजमात्रैर्यष्टव्यैः सहिते शुचयद्भिः शोचयद्भिरर्कैर्मन्त्रैर्हविर्भिर्वा युक्ते तस्थतुः । तिष्थतः । स्यातामित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः