मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५७, ऋक् ६

संहिता

अ॒र्वाची॑ सुभगे भव॒ सीते॒ वन्दा॑महे त्वा ।
यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि ॥

पदपाठः

अ॒र्वाची॑ । सु॒ऽभ॒गे॒ । भ॒व॒ । सीते॑ । वन्दा॑महे । त्वा॒ ।
यथा॑ । नः॒ । सु॒ऽभगा॑ । अस॑सि । यथा॑ । नः॒ । सु॒फला॑ । अस॑सि ॥

सायणभाष्यम्

हे सुभगे सीते त्वमर्वाच्यर्वागञ्चना भव । त्वा त्वां वन्दामहे । स्तुवीमहि । यथा नः सुभागाससि । शोभनधना भवसि । यथा नः सुफलाससि तथा मन्दामहे ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः