मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् ८

संहिता

अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषा॑ः कल्या॒ण्य१॒॑ः स्मय॑मानासो अ॒ग्निम् ।
घृ॒तस्य॒ धारा॑ः स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥

पदपाठः

अ॒भि । प्र॒व॒न्त॒ । सम॑नाऽइव । योषाः॑ । क॒ल्या॒ण्यः॑ । स्मय॑मानासः । अ॒ग्निम् ।
घृ॒तस्य॑ । धाराः॑ । स॒म्ऽइधः॑ । न॒स॒न्त॒ । ताः । जु॒षा॒णः । ह॒र्य॒ति॒ । जा॒तऽवे॑दाः ॥

सायणभाष्यम्

घृतस्य धारा अमुमग्निं समनेव समानमनस्का योषा योषितः पतिमिवभिप्रवन्त । अभिनमयन्ति । निमग्नं कुर्वन्ति । कीदृश्यस्ताः । कल्याण्यो भद्ररूपाः स्मयमानासो हसन्त्यः । किञ्च ताः समिधः सम्यग्दीपयित्र्यः सत्यो नसन्त । व्याप्नुवन्ति । ता एव धारा जुशानः प्रीयमाणः सेवमानो वायं जातवेदाहर्यति । कामयते । घृतशब्दस्योदकमिति पक्शेऽग्निजातवेदः शब्द्द्भ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभि प्रवन्त नसन्त च । स ताश्च हर्यति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११