मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५८, ऋक् १०

संहिता

अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त ।
इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ॥

पदपाठः

अ॒भि । अ॒र्ष॒त॒ । सु॒ऽस्तु॒तिम् । गव्य॑म् । आ॒जिम् । अ॒स्मासु॑ । भ॒द्रा । द्रवि॑णानि । ध॒त्त॒ ।
इ॒मम् । य॒ज्ञम् । न॒य॒त॒ । दे॒वता॑ । नः॒ । घृ॒तस्य॑ । धाराः॑ । मधु॑ऽमत् । प॒व॒न्ते॒ ॥

सायणभाष्यम्

हे मदीया ऋत्विजो गव्यं गोसमूहरूपं गोसम्बन्धिनं वाजिं सङ्घातमभ्यर्शत । अभिगच्छत । अभिगमयत वा सुष्टुतिं शोभनां स्तुतिम् । अत्र गोशब्देनोदकानि गावो वोच्यन्ते । तत्सङ्घातोऽभिप्रेतः । अस्मासु यजमानेषु भद्रा स्तुत्यानि द्रविणानि धत्त । धारयत । स्तुत्या खलु फलम् लप्स्यते । किञ्च नोऽस्मदीयमिमं यज्ञं देवता अत्र यष्टव्यान्देवान्नयत । प्रापयत । घृतस्य धारामधुमद्यथा तथा पवन्ते । गच्छन्ति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११