मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १, ऋक् १

संहिता

अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म् ।
य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑ना॒ः प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥

पदपाठः

अबो॑धि । अ॒ग्निः । स॒म्ऽइधा॑ । जना॑नाम् । प्रति॑ । धे॒नुम्ऽइ॑व । आ॒ऽय॒तीम् । उ॒षस॑म् ।
य॒ह्वाःऽइ॑व । प्र । व॒याम् । उ॒त्ऽजिहा॑नाः । प्र । भा॒नवः॑ । सि॒स्र॒ते॒ । नाक॑म् । अच्छ॑ ॥

सायणभाष्यम्

आत्रेये पञ्चमे मण्डले षानुवाकाः । तत्र प्रथमेऽनुवाके चतुर्दश सूक्तानि । तत्राबोध्यग्निरिति द्वादशर्चं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका । अबोधि द्वादश बुधगविष्ठिराविति । पञ्चमे मण्डलेऽनुक्तगोत्रमाग्रेयं विद्यादिति परिभाषितत्वादात्रेयौ बुधगविष्ठिरावृषी । अनादेशपरिभाषया त्रिष्टुप् । मण्डलापरिभाषयाग्निर्देवता । प्रातरनुवाक आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चैतदादिचत्वारि सूक्तानि । तथा च सूत्रितम् । अबोध्यग्निः समिधेति चत्वारि । आ. ४.१३ । इरि । अध्यायोत्सर्जनोपाकरणयोर्धामन्ते विश्वमिति द्वृचत्वेन विनियोग उक्तः ॥

अयमग्निर्जनानामध्वर्व्यादीनां समिधा समिद्भिरबोधि । प्रबुद्धोऽभूत् । धेनुमिव । अग्निहोत्रार्थेधेनुं प्रति यथा प्रातर्बुध्यते तद्वदायतीमागच्छन्तीमुषसं प्रति । उषःकाल इत्यर्थः । अथ प्रबुद्धस्याग्नेर्भानवो ज्वाला यह्व मनान्तो वयां शाखां प्रोज्जिहानाः प्रोद्गमयन्तो वृक्षा इव प्रोज्जिहानाः स्वाधिष्ठानं त्यजन्तो नाकमन्तरिक्षमच्छाभिमुख्येन प्र सिस्रते । प्रसरन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२