मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १, ऋक् २

संहिता

अबो॑धि॒ होता॑ य॒जथा॑य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मना॑ः प्रा॒तर॑स्थात् ।
समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो॑ म॒हान्दे॒वस्तम॑सो॒ निर॑मोचि ॥

पदपाठः

अबो॑धि । होता॑ । य॒जथा॑य । दे॒वान् । ऊ॒र्ध्वः । अ॒ग्निः । सु॒ऽमनाः॑ । प्रा॒तः । अ॒स्था॒त् ।
सम्ऽइ॑द्धस्य । रुश॑त् । अ॒द॒र्शि॒ । पाजः॑ । म॒हान् । दे॒वः । तम॑सः । निः । अ॒मो॒चि॒ ॥

सायणभाष्यम्

अयं होता होमनिष्पादकोऽग्निर्देवान्यष्टव्यान्यजथाय यष्टुमबोधि । बुध्यते । सोऽग्नि प्रातः काले सुमना शोभनमनस्को यजमानानुग्रह बुद्धिः सन् ऊर्ध्वोऽस्थात् । उत्तिष्थति । समिद्धस्यास्य रुद्रोचमानं पाजो बलं ज्वालालक्षणमदर्शि । दृश्यते । अथ तथाभूतो महान्देवस्तमसोऽन्धकारान्निरमोचि । निर्मुक्तोऽभूत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२